डिजिटल्-वित्तीयसमावेशस्य सन्दर्भः समाजस्य मुख्यधाराविहीनानाम् एवं अधिकारविहीनजनानां कृते डिजिटल्-सेवायाः प्राप्तीकरणं तथा औपचारिकवित्तीयसेवोपयोगानां नूतनावसरप्रदानं वर्तन्ते। एतेषाम् उद्देश्यानां कृते प्रारब्धा सेवा डिजिटल्-वित्तीयसेवा (डीएफएस) इति नाम्ना स्वीक्रियन्ते। उपयोगकर्तॄणाम् आवश्यकतानुसारैः एतस्याः संरचना कृता तथा उत्तरदायिरूपेण उचितमूल्ये प्रदीयन्ते। उपयोगकर्तॄणां प्रदानकर्तारं उभयोः कृते वहनीयाः सन्ति। एतादृशी काश्चिद् डिजिटल्वित्तीयसेवायाः तिस्रः प्रमुखविभागाः सन्ति - आदान-प्रदानाय एकः डिजिटल्मञ्चः, अल्पशो-विक्रेतारः एवं अनेन मञ्चमाध्यमेन सामान्यतः उपभोक्तालघुविक्रेताभिः चलभाषसदृशोपकरणानामुपयोगाय।

एषा एका प्रणाली वर्तते यत्र वित्तकोषसेवानाम् अप्रयोगकर्तॄन् वित्तीयसेवानां शीघ्ररूपैः प्रददति । वित्तकोषाः, लघुवित्तसंस्थाः, चलभाषसंचालकाः, एवं लघु एजेंट्स नेटवर्क सह अन्यसेवादायकः चलभाषः, विक्रयबिन्दुः (पाईंट-ऑफ-सेल) इत्योपकरणस्य उपलब्धतायैः व्यापक-सुविधाजनकरूपैः एवं पारम्परिकवित्तसेवातः अतिन्यूनमूल्ये प्राथमिकवित्तीयसेवां पारंपरिकवित्तीयसेवां प्रददति।

डिजिटल-वित्तीयसेवा अधोनिर्दिष्टाः सन्ति -

कार्ड्स

USSD-यूएसएसडी

AEPS-एईपीएस्

UPI-यूपीआई

वॉलेट्

कार्ड्स के सन्ति ?

एते सामान्यतः वित्तकोषमाध्यमेन प्रसारितं एतेषां प्रसारणं कार्डधारकस्य उपयोगाधारे विनिमयाधारे वर्गीकर्तुं शक्यते। कार्ड् त्रिप्रकारकाः वर्तन्ते : डेबिट्कार्ड क्रेडिट्कार्ड प्रीपेड्कार्ड च।

विभिन्नप्रकारकाः कार्ड्स के सन्ति ?

प्रीपेड् कार्ड्स : एते ग्राहकवित्तकोषेन पूर्व सन्ति तथा एतान् चलभाषवित्तपूरणमिव वित्तपूरणं कर्तुं शक्यन्ते । उपयोगकरणाय सुरक्षितम्।

डेबिट् कार्ड्स : लेखीकृतवित्तकोषेन अस्य प्रदानं भवति यः उपयोगकर्तुः वित्तकोषेन सन्नद्धं भवति। डेबिट कार्ड वित्तलेखाधारकान् (करंट/सेविंग/ओवरड्राफ्ट) प्रसारितं भवति तथा कश्चिदपि व्ययम् उपयोगकर्तायाः वित्तकोषेन सद्यः आहरणं जायते। कार्ड्स इत्यस्य उपयोगः स्ववित्तकोषे वर्तमानपरिमितं मुद्राहरणे कर्तुं शक्यते । अस्य उपयोगः जनेषु परस्परं गृहवित्तविनिमयानपि कर्तुं शक्यते।

क्रेडिट् कार्ड्स : एतेषां प्रदानं वित्तकोषैः/रिजर्व—बैंक इत्यनेन अधिकृताः अन्यसंस्थाः इत्याभिः जायन्ते। एतस्य प्रयोगः गृहे अन्तर्राष्ट्रीये च कर्तुं शक्यते (यदि अंतर्राष्ट्रीयोपयोगाय सक्षमीकृतम् चेत्)। डेबिट्कार्ड्स इत्यस्य पृथक्तया, क्रेडिटकार्ड्स इत्यस्य विषये कोऽपि उपयोगकर्ता स्ववित्तकोषे विद्यमान् धनराशीतः अधिकधनराशेः निष्कासनमपि कर्तुं शक्यते किन्तु प्रतिक्रेडिट्कार्ड्स कृते निर्धारितसीमापर्यन्तमेव अतिरिक्तधनराशेः निष्कासयितुं शक्यते। एवञ्च अतिरिक्ताहृतधनराशेः पुनर्निवर्तनं निर्धारितसमयसीमावधेः करणीयं यत्र विलम्बेन, कार्डधारकम् अस्य धनराशेः प्रदानं निर्धारितव्याजेन सह करणीयम्।

डेबिट/क्रेडिट कार्ड्स इत्यनयोः कथम् उपयोगं करणीयम् ?

एटीएम इत्यनेन धनाहरणाय, उपयोगकर्तारम् डेबिट/क्रेडिट-कार्ड्स प्रवेशयित्वा वित्तकोषेण प्रदत्ता स्वविशिष्टकूटसंख्यायाः PIN संख्या (4 अंकाः) टंकणं करणीयम्। प्रतिदिनम् अधिकतमधनराशेः आहरणस्य निर्धारणं वित्तकोषैः क्रियन्ते।

डेबिट्कार्ड इत्यनेन सह कार्डधारकैः एटीएम इत्यस्य उपयोगः, विना वित्तकोषशाखां गत्वा, वित्तकोषविवरणस्य ज्ञानाय, धनादेशं धनराशिः निक्षेपाय, लघुविवरणिका प्राप्तिकरणं इत्यादयः यथा वित्तीय-अवित्तीयविनिमयादि सेवानां प्राप्तिकरणे कर्तुं शक्यन्ते

वृहदापणे एवं लघ्वापणे क्रीतसमये अधोनिर्दिष्टप्रक्रियां पालयतु -

उपयोगकर्ता आपणेषु धनाधिकारिणं डेबिटकार्ड इति ददाति।
व्यापारी पीओएस PoS यन्त्रमाध्यमेन कार्ड इत्ययं योजयति।
व्यापारी क्रयवस्तूनां राशेः टंकणं करोति।
उपभोक्ता कार्डकूटसंख्यां टंकयति।

ग्राहकः पंजीकृतचलभाषे समायोजितराशेः संक्षिप्तसंदेशं प्राप्यति।
व्यापारी तस्य ग्राहकहस्ताक्षरितप्राप्तिकां स्वीकरोति एवं प्रतिप्राप्तिकां ग्राहकं ददाति, उपयोगकर्तुः संरक्षणाय।
यन्त्रं प्राप्तिकायाः मुद्रणं करोति, यस्य सत्यापनं उपयोगकर्ता करोति।
वित्तकोषः साक्षात् उपयोगकर्तुः कोषात् क्रयदेयकाय धनम् आहरति।

मया एतेषामुपयोगः किमर्थं करणीयः ?

स्वकार्ड् इत्यस्योपयोगः कुत्रापि वाणिज्याय।

आपणेषु, एटीएम, वॉलेट्सए माइक्रोएटीएम(ATM), अन्तर्जालीयक्रयणे।

डेबिट् एवं क्रेडिट कार्डस् इत्यनयोः उपयोगः एटीएम(ATM) इत्यतः धनस्य आहरणाय, पीओएस (पॉइंट-ऑफ़-सेल POS) इत्यत्र वस्तूनां सेवानां च क्रयणे अन्तर्जालीयक्रयणे च कर्तुं शक्यते

सर्वप्रकारकैः उपयोगितादेयकानां धनप्रदानाय प्रयोक्तुं शक्यते।

उपभोक्तारः इत्याभ्याम् आरक्षणपत्रम् (वायुयानम्/रेलयानम्/लोकयानम्) क्रेतुं शक्यन्ते, विश्रामालयस्य आरक्षणमपि कर्तुं शक्यन्ते एवं भोजनालये धनमपि दातुं शक्यन्ते ।

उपयोगकर्ता कुत्रापि स्थलेषु काऽपि सेवानां शुल्कप्रदातुं शक्यते यत्र कार्डरीडर/पीओएस POS यन्त्रं वर्तते।

कार्डप्राप्तिः कथं भवेत् ?

उपभोक्ता डेबिट/रुपे/क्रेडिट कार्ड्स इत्येतेषां कृते सर्वेषु सार्वजनिकवित्तकोषे, निजवित्तकोषे च आवेदनं दातुं शक्यते।

नागरिकाः स्ववित्तशाखायां आवेदनप्रदानेन डेबिट्कार्ड इति प्राप्तुं शक्यन्ते।

नागरिकाः स्वीयान् डेबिट्कार्ड इत्ययं रूपेकार्डरूपेण परिवर्तयितुं शक्यन्ते।

येषां नागरिकाणां वित्तकोषलेखा न वर्तन्ते, तान् कार्डप्राप्तेः पूर्वं नूतनवित्तलेखानां निर्माणं करणीयम्।

सर्वकारस्य आदेशानुसारेण, सर्वेषु वित्तकोषेषु जनधनयोजनालेखाधारकान् रूपेकार्ड (RuPay) प्रदानं भवेत्।

USSD यूएसएसडी इति किम् ?

यूएसएसडी इत्यस्यार्थः वर्तते - असंरचनात्मकपूरकदत्तांशसेवा (अन्स्ट्रक्चर्ड सप्लिमेंटरी सर्विस डाटा)। एषा एका सेवा वर्तते यस्याः उद्देश्यः वित्तकोषविनिमयं राष्ट्रस्य प्रत्येकं सामान्यजनानां कृते उपलब्धीकरणम्। एषा सेवा प्रतिग्राहकं टेलीकॉमसेवाप्रदाता, चलभाषनिर्माता, क्षेत्रं च इयत्येतेषां प्रभावान् विना एकया संख्यया वित्तकोषसेवानां प्रदानस्य कार्यं करोति। इयं सेवा राष्ट्रीय-एकीकृत-यूएसएसडी-प्लेटफार्म-माध्यमेन एका संक्षिप्तकूटसंख्या *99# इत्यत्र प्रदेया भवति। अस्या सेवायाः उपयोगः प्रतिग्राहकं रू. 5000 प्रदानाय कर्तुं शक्यते।

अस्माकं कृते किम् आवश्यकं वर्तते ?

वित्तकोषे लेखा

जीएसएम जाले कोऽपि चलभाषः

उपभोक्तुः लेखायां वित्तकोषस्य पंजीकृतचलभाषं भवेत्।

अस्याः सेवायाः उपयोगं कथं कुर्यात् ?

स्ववित्तशाखां गत्वा चलभाषसंख्यां स्ववित्तलेखायां संयोजनम् (इदं कार्यं एटीएममध्ये अन्तजार्ले वाऽपि कर्तुं शक्यते)

चलभाषधनपरिचायिका (मोबाइल-मनी-आइडेंटिफायर MMID) एवं चलभाषकूटसंख्या (मोबाइल पिन -MPIN) इत्येतयोः प्राप्तीकरणम्।

चलभाषकूटसंख्यायाः (मोबाइल पिन -MPIN) स्मरणं भवेत्।

यूएसएसडी इत्यस्याः काः लाभाः ?

USSD यूएसएसडी सुविधाम् उपयोगाय सोपानाः -

इयं सेवा पूर्वप्रदत्तदेयराशेः सूचनाप्राप्तेरिव सरला वर्तते। वित्तविनिमयं सामान्यचलभाषेणापि कर्तुं शक्यते।

स्वचलभाषसंख्यां स्ववित्तकोषेण योजयतु।

स्वचलभाषेण *99# प्रेषयतु।

स्ववित्तकोषस्य प्रथमतः 3 संक्षिप्ताक्षरान् प्रवेशयतु अथवा आईएफएससी इत्यस्य प्रथमतः 4 अक्षरान् प्रवेशयतु।

“Fund-Transfer-MMID” इति विकल्पं चिनोतु।

प्राप्तिकर्तुः चलभाषसंख्या MMID संख्या च पंजीकरोतु।

धनराशिः स्व MPIN च ददातु, एकं रिक्तस्थानं त्यक्त्वा स्ववित्तलेखासंख्यायाः अन्तिमचत्वारांकान् प्रवेशयतु।

उपर्युक्तचरणैः स्वधनराशेः स्थानान्तरणं भवेत्।

उपलब्धसेवाः

अवित्तीयसेवाः -

शेषराशेः परिज्ञानम् - उपयोगकर्ता चलभाषेण संयुता वित्तकोषे उपलब्धशेषराशेः परिज्ञातुं शक्यते।

MMID *(Mobile Money Identifier) इत्यस्य सूचना - उपयोगकर्ता चलभाषलेखापंजीकरणसमये वित्तकोषेण प्राप्तं इति ज्ञातुं शक्यते

लघुविनिमयविवरणम् - उपयोगकर्ता चलभाषेण संयुता वित्तकोषस्य लेखायाः विनिमयविवरणं MMID प्राप्तुं शक्यते

M-PIN निर्माणं/परिवर्तनं - उपयोगकर्ता M-PIN (Mobile PIN) निर्माणं/परिवर्तनं च कर्तुं शक्यते अयं कूटसंकेतरूपेण वर्तते एवं वित्तविनिमये अधिकरणाय प्रयुङ्क्ते

वित्तीयसेवाः

चलभाषसंख्या एवं MMID इत्यस्योपयोगेन वित्तनिधेः स्थानान्तरणम् - उपयोगकर्ता हितग्राहीजनस्य चलभाषसंख्या एवं MMID इत्यस्योपयोगेन वित्तनिधेः स्थानान्तरणं कर्तुं शक्यते।

IFSC आईएफएससी एवं लेखासंख्यायाः उपयोगेन वित्तनिधेः स्थानान्तरणम् - उपयोगकर्ता हितग्राहीजनस्य आईएफएससी IFSC संकेतेन एवं लेखासंख्यया वित्तनिधेः स्थानान्तरणं कर्तुं शक्यते।

अधिकनिर्देशानां कृते स्ववित्तकोषस्य अन्तर्जालपुटतः सूचनाप्राप्तुं शक्यते।

एईपीएस इति किम् ?

AEPS एईपीएस इत्यस्यार्थः वर्तते - आधार-इत्याश्रितमुद्राविनिमयप्रणाली (आधार-एनेबल्ड-पेमेंट-सिस्टम) इयं एका मुद्राप्रदानसेवा वर्तते यत्र इयं कोषग्राहकान् स्वाधारकार्डसम्बन्धिपरिचयपत्रमाध्यमेन आधारकार्डसक्रियवित्तकोषलेखायाः संयोजने एवञ्च वित्तकोषविनिमये सुविधां ददाति। इयं वित्तकोष-कॉरस्पॉडेंट (बीसी) इति साहाय्येन पीओएस (माईक्रो-एटीएम) इत्यत्र वित्तकोषेन सह परस्परं विनिमयस्य अनुमतिं ददाति। उपयोकर्तारं वित्तकोषे अथवा बीसी इति साहाय्येन स्ववित्तकोषाय आधारसंख्या देया वर्तते। उपयोगकर्ता कूटशब्देन कूटसंख्यया विना कुत्रापि एईपीएस बिन्दौ स्वेच्छया विनिमयं कर्तुं शक्यते।

एईपीएस सक्रियकरणाय किम् आवश्यकं वर्तते?

कश्चिद् एईपीएस उपभोक्तारं विनिमयाय अधोनिर्दिष्टाः आवश्यकं वर्तते -

आईआईएन (उपभोक्तासम्बन्धी वित्तकोषस्य परिचयम्)

आधारसंख्या

नामांकनसमये अङ्गुल्याकृतिः

माईक्रोएटीएम प्रति गच्छतु अथवा वित्तकोषसंवाददाता—सकाशे गच्छतु।

वित्तकोषस्य नाम आधारसंख्या च ददातु।

वित्तकोषविनिमयस्य प्रकारं ददातु।

स्कैनरमध्ये अङ्गुलीमुद्रणं ददातु।

सफलवित्तविनिमये मुद्रणप्राप्तिकायां स्वीकरोतु।

अहं अस्योपयोगं कथं कुर्याम् ?

आधारसंख्या एवम् अङ्गुलीमुद्रणस्य उपयुक्त्वा लाभाय, सरलोपयोगे, सुरक्षितविनिमयाधारः।

जनानां जनसांख्यिकीया बायोमीट्रिक/नेत्रपुत्तिलिकायाः सूचनाश्रित्या छलम् अनुचितगतिविधिञ्च अवरोधयति।

नरेगा, सामाजिकसुरक्षावृत्तिः, दिव्यांगवृद्धायुवृत्तिः इत्यादयः यथा केन्द्रीय—राज्यसर्वकाराणां सर्वनिकायानां सर्वकारसुविधानां वितरणम् आधारमाध्यमेन अधिकृत्य सौविध्यं जनयति।

वित्तकोषाणां मध्ये अन्तर-प्रचालनं सुरक्षितरूपेण सुविधारूपेण च संचाल्यते।

तेषां वित्तकोषान् जालकृत्यपरिधेः दूरात् ग्राहकानां वित्तसेवाविस्तारणाय वित्तकोषान् सक्षमीकरोति यतोहि बीसी इत्यस्य हितग्राही अधिकतरः वित्तकोषविहीनाः अथवा यत्र वित्तकोषाः न्यूनस्थानेषु भवन्ति।

वर्तमाने वित्तविनिमये कोऽपि शुल्कः न वर्तते।

वित्तकोषसंख्यायाः स्मरणस्य आवश्यकता न वर्तते।

बायोमीट्रिकोपकरणधारकाः उपभोक्तारः संगणकस्य एंड्रॉइड फोनधटैब्लेट्स इत्येतेषाम् च उपयोज्य गृहात् वित्तविनिमयं कर्तुं शक्यन्ते । बायोमीट्रिकोपकरणे केचन अन्तनिर्हितटैब्लेट् उपलब्धानि सन्ति, येषामुपयोगः विनिमयाय कर्तुं शक्यते।

यूपीआई UPI (यूनिफाइड पेमेंट्स इंटर्फेस)

यूपीआई UPI इति किं ?

UPI यूपीआई इत्यस्य अर्थः वर्तते - एकीकृत-वित्तविनिमय-माध्यमः (यूनिफाइड-पेमेंट्स-इंटर्फेस) । इदं उपयोगकर्तुः स्मार्ट-चलभाषेण वैद्युतकवित्तविनिमयस्य प्रणाली वर्तते। इदं सद्यःवित्तप्रदानसेवातः (आईएमपीएस) उन्नतसंस्करणं वर्तते यत्र वित्तकोषलेखानां मध्ये त्वरितवैद्युतकविनिमयाय उपयुक्तं भवति।

सद्यःवित्तप्रदानसेवा (आईएमपीएस) सदृशः यूपीआई 24 घण्टासु कोषस्थानान्तरणसेवायां सुविधां प्रकर्षयति।

इदं तादृशः उपयोगकर्तुः परिचयं प्रमाणीकरोति यथा कार्ड्प्रयोगं विहाय चलभाषमाध्यमेन क्रेडिट्कार्ड इत्यस्य उपयोगे भवति

इदं अहर्निशं 365 दिनं कार्यं करोति।

भवतां कृते किम् आवश्यकं वर्तते ?

UPI यूपीआई एप्लिकेशन् (ऐप्) चलभाषं च।

एकः वित्तकोषः

इदं कथं कार्यं करोति ?

UPI यूपीआई इत्यनेन जालपुटविनिमयाय त्रिचरणात्मिका सरला प्रक्रिया वर्तते -

अस्य वैशिष्ट्यम् लाभाश्च के सन्ति ?

UPI उपयोगकर्तुः नाम, वित्तलेखाक्रमांक, आईएफएससी-संकेतः IFSC एवं वित्तकोषविवरणप्रदानस्य आवश्यकतां दूरीकरोति।

UPI डेबिट्-कार्ड् सदृशेषु भौतिकसाधनानाम् उपयोगान् अपि निदधाति।

जालपुटवित्तविनिमयसदृशाः बहुचरणप्रक्रियाणामुपयोगस्य आवश्यकता न वर्तते, यत्र असुरक्षितफ्रेमवर्क्स इत्यनेन फिशिंग इति रूपेण हानिं भवति।

इदं बहुसरलं ऐप् वर्तते यस्योपयोगः कोपि कर्तुं शक्यते।

त्वरितं सुरक्षितञ्च प्रमाणीकरणं कुत्रपि कर्तुं शक्यते।

पूर्णतः धनपत्ररहितसमाजस्य मार्गं प्रशस्तीकरोति।

इनवाईस-सदृशः धनराशेः अनुरोधकृते उपयोगं कर्तुं शक्यते।

ग्राहकोपयोगिता-विक्रयपत्रणां कृते विद्यालयशुल्कप्रदानाय अपि यूपीआई इत्यस्य प्रयोगं कर्तुं शक्यते।

ई-वॉलेट्

ई-वॉलेट् इति किम् ?

ई-वॉलेट् एकः वैद्युतक-धनकोषः वर्तते। इदं वैद्युतक-कार्ड् इत्यस्य एकः प्रकारः वर्तते यस्य उपयोगः संगणकेन स्मार्ट्-चलभाषमाध्यमेन च जालपुटे वित्तविनिमयाय वर्तते। ई-वॉलेट् इत्यस्योपयोगिता क्रेडिट्-डेबिड्कार्डरूपेणैव वर्तते। वित्तविनिमयाय ई-वॉलेट् इत्यस्य संयोजनं वित्तकोषेन सह करणीयम्। ई-वॉलेट् इत्यस्य मुख्योद्देश्यं मुद्रितधनपत्राणां विना धनराशेः स्थानान्तरणे सौविध्यम्।

ई-वॉलेट् इत्यस्य वैशिष्ट्यम्

Type of pre-paid account in which a user can store his/her money for any future online transaction. प्रीपेड्कोषस्य प्रकाराः (पूर्वभुक्तकोषः) यत्र उपयोगकर्ता अगिमजालपुटव्यावहाराय वित्तं संरक्षितुं शक्यते।

इदं कथं कार्यं करोति

ई-वॉलेट इत्ययं मुख्यरूपेण द्विधा विभज्यते - सॉफ़्टवेयर्, सूचना च।

सॉफ़्टवेयर् प्रभागः व्यक्तिगतसूचनानां संचयति तथा दत्तांशस्य सुरक्षा सङ्कूटनञ्च ददाति एवञ्च सूचनाप्रभागे उपयोगकर्तृप्रदत्तांशानां डेटाबेस्-रूपेण विवरणं वर्तते यत्र तेषां नामानां, पत्रसंकेतानां, विकर्षविधीनां, प्रदत्तराशीनां क्रेडिट्-डेबिट्कार्डानां विवरणानि प्राप्यन्ते।

मया ई-वालेट् इत्यस्य उपयोगः कथं करणीयम् ?

उपभोक्ता कृते

स्वडिवाईसमध्ये ऐप अवचिनुयात्।

आवश्यकसूचनान् दात्वा प्रवेशयतु। उपयोगकर्तारं एकं कूटसंकेतं लभ्यते।

क्रेडिट्-डेबिट्कार्डमाध्यमेन अथवा जालपुटव्यापारेण (नैटबैंकिंगमाध्यमेन) धनराशिं निक्षेपयेत्।

आनलाईनक्रयक्रीतानन्तरं ई-वालेट् शुल्कप्रपत्रे उपयोगकर्तुः विवरणं स्वयमेव प्राप्यते।

आनलाईनविनिमयानन्तरम् उपयोकर्तारम् अन्यजालपुटे शुल्कपत्रविवरणप्रदानस्य आवश्यता न वर्तते, यतोहि विवरणं डेटाबेसमध्ये संचयति स्वतः परिवर्तयति च।

व्यापारीणां कृते

व्यापारकाः स्वडिवाईसमध्ये ऐप अवचिनुयुः।

निर्धारितसूचनां दात्वा प्रवेशनम्। तदनन्तरं उपयोगकर्तारं एकं कूटसंकेतं प्राप्स्यते

स्वं व्यापारीरूपेण घोषणा।

प्रदत्तराशेः स्वीकरणम्।

मया ई-वॉलेट् इत्स्योपयोगाय किं किं आवश्यकम् ?

वित्तकोषं व्यवहारकृते

स्मार्ट-चलभाषयन्त्रम्

2जी/3जी/4जी संयोजकता

निःशुल्क वॉलेट्ऐप्

वित्तव्यवहाराय आवश्यकम्

एसएमएस-माध्यमेन नियमितसूचनाप्राप्त्यर्थं वित्तकोषं गत्वा स्वचलभाषस्य संख्या नियोजयेत्

स्वकूटसंकेतं केनापि न वक्तव्यम्।

केवलं विश्वस्तव्यापारिभिः सह व्यापारान् करणीयम्

एटीएम इत्यस्योपयोगसमये इदं सुनिश्चयीकरोतु यत् पृष्ठतः कोऽपि व्यवहारं न पश्यति।

स्त्रोत: सीेएससी इंडिया ।